|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.156. अध्यायः 156
Mahabharata - Vana Parva - Chapter Topics
दुर्निमित्तप्रदर्शिना भीमसेनानवलोकिना च युधिष्ठिरेण द्रौपदींप्रतिभीमाभिगतदेशप्रश्नः ॥ 1 ॥ द्रौपद्या भीमचिकीर्षितं निवेदितेन युधिष्ठिरेण घटोत्कचसाहाय्येन भीमसमीपगमनम् ॥ 2 ॥ कुबेरबहुमानितैस्तैरर्जुनदिदृक्षया तत्रैव सुखेन विहरणम् ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-156-0x(2284)(21824)
ततस्तानि महार्हाणि दिव्यानि भरतर्षभ।
बहूनि बहुरूपाणि विरजांसि समाददे ॥ 3-156-1(21825)
ततो वायुर्महाञ्शीघ्रो नीचैः शर्करकर्षणः।
प्रादुरासीद्वरस्पर्शः संग्राममभिचोदयन् ॥ 3-156-2(21826)
पपात महती चोल्का सनिर्घाता महाभया।
निष्प्रभश्चाभवत्सूर्यंश्छन्नरश्मिस्तमोवृतः ॥ 3-156-3(21827)
निर्घातश्चाभवद्भीमो भीमे विक्रममास्थिते।
चचाल पृथिवी चापि पांसुवर्षं पपात च ॥ 3-156-4(21828)
सलोहिता दिशश्चासन्खरवाचो मृगद्विजाः।
तमोवृतमभूत्सर्वं न प्राज्ञायत किंचन। 3-156-5(21829)
[अन्ये च बहवो भीमा उत्पातास्तत्र जज्ञिरे ॥]
तदद्भुतमभिप्रेक्ष्य धर्मपुत्रो युधिष्ठिरः।
उवाच वदतां श्रेष्ठः कोऽस्मानभिभविष्यति ॥ 3-156-6(21830)
सज्जीभवत भद्रं वः पाण्डवा युद्धदुर्मदाः।
यथा रूपाणि पश्यामि सुव्यक्तो नः पराक्रमः ॥ 3-156-7(21831)
एवमुक्त्वा ततो राजा वीक्षांचक्रे समन्ततः।
अपश्यमानो भीमं तु धर्मपुत्रो युधिष्ठिरः ॥ 3-156-8(21832)
ततः कृष्णां यमौ चापि समीपस्थानरिंदमः।
पप्रच्छ भ्रातरं भीमं भीमकर्माणमाहवे ॥ 3-156-9(21833)
कच्चिन्न भीमः पाञ्चालि किंच कृत्यं चिकीर्षति।
कृतवानपि वा वीर साहसं साहसप्रियः ॥ 3-156-10(21834)
इमे ह्यकस्मादुत्पाता महासमरशंसिनः।
दर्शयन्तो भयं तीव्रं प्रादुर्भूताः समन्ततः ॥ 3-156-11(21835)
तं तथावादिनं कृष्णा प्रत्युवाच मनस्विनी।
प्रिया प्रियं चिकीर्षन्ती महिषी चारुहासिनी ॥ 3-156-12(21836)
यत्तत्सौगन्धिकं राजन्नाहृतं मातरिश्वना।
तन्मया भीमसेनस्य प्रीतयाऽद्योपपादितम् ॥ 3-156-13(21837)
अपि चोक्तो मया वीरो यदिपश्येर्बहून्यपि।
तानि सर्वाणअयुपादाय शीघ्रमागम्यतामिति ॥ 3-156-14(21838)
स तु नूनं महाबाहुः प्रियार्थं मम पाण्डवः।
प्रागुदीचीं दिशं राजंस्तान्याहर्तुमितो गतः ॥ 3-156-15(21839)
उक्तस्त्वेवं तया राजा यमाविदमथाब्रवीत्।
गच्छाम सहितास्तूर्णं येन यातो वृकोदरः ॥ 3-156-16(21840)
वहन्तु राक्षसा विप्रान्यथाश्रान्तान्यथाकृशान्।
त्वमप्यमरसंकाश वह कृष्णां घटोत्कच ॥ 3-156-17(21841)
व्यक्तं दूरमितो भीमः प्रविष्ट इतिमे मतिः।
चिरं चतस्य कालोऽयं स च वायुसमो जवे ॥ 3-156-18(21842)
तरस्वी वैनतेयस्य सदृशो भुवि लङ्घने।
उत्पतेदपिचाकाशं निपतेच्चयथेच्छकम् ॥ 3-156-19(21843)
तमन्वियाम भवतां प्रभावाद्रजनीचराः।
पुरा स नापराध्नोति सिद्धानां ब्रह्मवादिनाम् ॥ 3-156-20(21844)
तथेत्युक्त्वा तु ते सर्वेहैडिम्बप्रमुखास्तदा।
उद्देशज्ञाः कुबेरस्य नलिन्या भरतर्षभ ॥ 3-156-21(21845)
आदाय पाण्डवांश्चैव तांश्च विप्राननेकशः।
लोमशेनैव सहिताः प्रययुः प्रीतमानसाः ॥ 3-156-22(21846)
ते सर्वे त्वरिता गत्वा ददृशुस्तत्र कानने।
पद्मसौगन्धिकवतींनलिनीं सुमनोरमाम् ॥ 3-156-23(21847)
तं च भीमं महात्मानं तस्यास्तीरे व्यवस्थितम्।
ददृशुर्निहतांश्चैव यक्षांश्च विपुलेक्षणान् ॥ 3-156-24(21848)
भिन्नकायाक्षिबाहूरुन्संचूर्णितशिरोधरान्।
तं च भीमं महात्मानं तस्यास्तीरे व्यवस्थितम् ॥ 3-156-25(21849)
सक्रोधं स्तव्धनयनं संदष्टदशनच्छदम्।
उद्यम्य च गदां दोर्भ्यां नदीतीरे व्यवस्थितम् ॥ 3-156-26(21850)
प्रजासंक्षेपसमये दण्डहस्तमिवान्तकम्।
तं दृष्ट्वा धर्मराजस्तु परिष्वज्याथ भारत ॥ 3-156-27(21851)
उवाच श्लक्ष्णया वाचा कौन्तेय किमिदं कृतम्।
साहसं वत भद्रं ते देवानामपि चाप्रियम्।
पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम् ॥ 3-156-28(21852)
अनुशिष्य तु कौन्तेयं पद्मानि परिगृह्य च।
तस्यामेव नलिन्यां तु विजह्ररमरोपमाः ॥ 3-156-29(21853)
एतस्मिन्नैव काले तु प्रगृहीतशिलायुधाः।
प्रादुरासन्महाकायास्तस्योद्यानस्य रक्षिणः ॥ 3-156-30(21854)
ते दृष्ट्वाधर्मराजानं महर्षिं चापि लोमशम्।
नकुलं सहदेवं च तथाऽन्यान्ब्राह्मणर्षभान् ॥ 3-156-31(21855)
विनयेन नताः सर्वेप्रणिपत्य च भारत।
सान्त्विता धर्मराजेन प्रसेदुः क्षणदाचराः ॥ 3-156-32(21856)
विदिताश्चकुबेरस्य तत्रते कुरुपुङ्गवाः।
ऊषुर्नातिचिरं कालं रममाणाः कुरूद्वहाः।
प्रतीक्षमाणआ बीभत्सुं गन्धमादनसानुषु ॥ 3-156-33(21857)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि पञ्चपञ्चाशदधिकशततमोऽष्यायः ॥ 156 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-156-7 पराक्रमः पराक्रमकालः ॥ 3-156-21 उद्देशज्ञाः स्थलज्ञाः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|